अनवक्लृप्त्यमर्षयोः इत्येव। यच् च यत्र इत्येतयोः उपपदयोरनवक्लृप्त्यमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययो भवति। लृटो ऽपवादः। योगविभाग उत्तरार्थः। यथासङ्ख्यं नेष्यते। यच् च तत्रभवान् वृषलं याजयेत्। यत्र तत्रभवान् वृषलं याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति।
"लृटोऽपवादः" इति। अनवक्लृप्त्यादिसूत्रेण
३।३।१४५ प्राप्तस्य। अथ पूर्वसूत्र एव यच्चयत्रयोग्र्रहणं कस्मान्न कृतम्,
किं योगविभागेन? इत्यत आह-- "योगविभाग उत्तरार्थः" इति। उत्तरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्मा भूत्। "यथासंख्यमिह नेष्यते" इति। पूर्वोक्तादेव लक्षणव्यभिचारचिह्नात्। स च बह्वचः पूर्वनिपातः सर्वत्रैव चात्र प्रकरणे लक्षणव्यभिचारचिह्नम्, न तु तत्रैव सूत्रे। अथ वा-- यथासंख्यार्थस्य स्वरितत्वस्याभावादिह न भवति यथासंख्यम्। उक्तं हि प्राक्-- "स्वरितेन चिह्नेन यथासंख्यं भवति" इति॥
यच्चयत्रयोः। यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लृप्त्यमर्षयोर्लिङ् स्यादित्यर्थः। लृटोऽपवादः। योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः। उदाहरणे यच्चेति यत्रेति च अनवक्लृप्त्यमर्षद्योतकौ। त्वमेवं कुर्या इत्येतन्न श्रद्दधे, न मर्षयामि वेत्यन्वयः। अत्रापि "भविष्यति नित्यं लृङ्, भूते वे"त्युक्तमनुसंधेयम्। लिङ्()निमित्तस्य सत्त्वात्।